|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.14. अध्यायः 014
Mahabharata - Sabha Parva - Chapter Topics
जरासन्धशौर्यकथनादिरूपं श्रीकृष्णवाक्यम्॥
Mahabharata - Sabha Parva - Chapter Text
कृष्ण उवाच॥
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि।
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत॥ 2-14-1(11874)
जामदग्न्येन रामेण क्षत्रं यदवशेषितम्।
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्॥ 2-14-2(11875)
कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप।
निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ॥ 2-14-3(11876)
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते।
राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि॥ 2-14-4(11877)
ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः।
तानि चैकशतं विद्धि कुलानि भरतर्षभ॥ 2-14-5(11878)
ययातेस्त्वेव भोजानां विस्तरो गुणतो महान्।
भजतेऽद्य महाराज विस्तरं सचतुर्दिशम्॥ 2-14-6(11879)
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते।
इदानीमेव वै राजञ्जरासन्धो महीपतिः॥ 2-14-7(11880)
अभिभूय श्रियं तेषां कुलानामभिषेचितः।
स्थितो मूर्ध्नि नरेन्द्राणामोजसाऽऽक्रम्य सर्वशः॥ 2-14-8(11881)
सोऽवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत।
प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत्॥ 2-14-9(11882)
स साम्राज्यं महाराज प्राप्तो भवति योगतः।
तं स राजा जरासन्धं संश्रित्य किल सर्वशः॥ 2-14-10(11883)
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान्।
तमेव च महाराज शिष्यवत्समुपस्थितः॥ 2-14-11(11884)
वक्रः करूषाधिपतिर्मायायोधी महाबलः॥
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ॥ 2-14-12(11885)
जरासन्धं महावीर्यं तौ हिंसडिम्बिकावुभौ।
वक्रदन्तः करूषस्य करभो मेघवाहनः।
मूर्ध्ना दिव्यं मणिं बिभ्रद्यमद्भुतमणिं विदुः॥ 2-14-13(11886)
मरुं च नरकं चैव शास्ति यो यवनाधिपः।
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा॥ 2-14-14(11887)
भगदत्तो महाराज वृद्धस्तव पितुः सखा।
स वाचा प्रणतस्तस्य कर्मणा च विशेषतः॥ 2-14-15(11888)
स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि।
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः॥ 2-14-16(11889)
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः।
स ते सन्नितिमानेकः स्नेहतः शत्रुसूदनः॥ 2-14-17(11890)
जरासन्धं गतस्त्वेव पुरा यो न मया हतः।
पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः॥ 2-14-18(11891)
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्।
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम्॥ 2-14-19(11892)
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः।
पौण्ड्रको वासुदेवेति योसौ लोकेऽभिविश्रुतः॥ 2-14-20(11893)
चतुर्थभाङ्महाराज भोज इन्द्रसखो बली।
विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान्॥ 2-14-21(11894)
भ्राता तस्याकृतिः शूरो जामदग्न्यसमोऽभवत्।
स भक्तो मागधं राजा भीष्मकः परवीरहा॥ 2-14-22(11895)
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः।
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः॥ 2-14-23(11896)
न कुलं सबलं राजन्नभ्यजानात्तथाऽऽत्मनः।
पश्यमानो यशो दीप्तं जरासन्धमुपस्थितः॥ 2-14-24(11897)
उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो।
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः॥ 2-14-25(11898)
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः।
सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह॥ 2-14-26(11899)
शाल्वायनाश्च राजानः सोदर्यानुचरैः सह।
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोसलाः॥ 2-14-27(11900)
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः।
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः॥ 2-14-28(11901)
तथैव सर्वपञ्चाला जरासन्धभायर्दिताः।
स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम्॥ 2-14-29(11902)
` अग्रतो ह्यस्य पाञ्चालास्तत्रानीके महात्मनः।
अनिर्गते सारबले मागधेभ्यो गिरिव्रजात्॥ 2-14-30(11903)
उग्रसेनसुतः कंसः पुरा निर्जित्य बान्धवान्'।
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः॥ 2-14-31(11904)
अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले।
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः॥ 2-14-32(11905)
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्।
भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना॥ 2-14-33(11906)
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता।
दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा॥ 2-14-34(11907)
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्।
हतौ कंससुनामानौ मया रामेण चाप्युत॥ 2-14-35(11908)
`हत्वा कंसं तथैवादौ जरासन्धस्य बिभ्यतः।
मया रामेण चान्यत्र ज्ञातयः परिपालितः'॥ 2-14-36(11909)
भये तु समतिक्रान्ते जरासन्धे समुद्यते।
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः॥ 2-14-37(11910)
अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः।
न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम्॥ 2-14-38(11911)
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ।
नामभ्यां हंसडिबिकावशस्त्रनिधनावुभौ॥ 2-14-39(11912)
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान्।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥ 2-14-40(11913)
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः।
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर॥ 2-14-41(11914)
`अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः।
दत्ता न च हतो राजञ्जरासन्धो महाबलः'॥ 2-14-42(11915)
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः।
रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे॥ 2-14-43(11916)
हतो हंस इति प्रोक्तस्य केनापि भारत।
तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत ॥ 2-14-44(11917)
विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे।
इत्येतां मतिमास्थाय डिबिको निधनं गतः॥ 2-14-45(11918)
तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः।
प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत॥ 2-14-46(11919)
तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ।
पुरं शून्येन मनसा प्रययौ भरतर्षभ॥ 2-14-47(11920)
ततो वयमित्रघ्न तस्मिन्प्रतिगते नृपे।
पुनरान्दिनः सर्वे मधुरायां वसामहे॥ 2-14-48(11921)
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना।
कंसभार्या जरासन्धं दुहिता मागधं नृपम्।
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता॥ 2-14-49(11922)
पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम।
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्॥ 2-14-50(11923)
संस्मरन्तो विमनसो व्यपयाता नराधिप।
पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम्॥ 2-14-51(11924)
पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः।
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः॥ 2-14-52(11925)
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम्।
ततो निवेशं तस्यां च कृतवन्तो वयं नृप॥ 2-14-53(11926)
तथैव दुर्गसंस्कारं देवैरपि दुरासदम्।
स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः॥ 2-14-54(11927)
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः।
आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च॥ 2-14-55(11928)
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन्।
एवं वयं जरासन्धादभितः कृतकिल्बिषाः॥ 2-14-56(11929)
सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः।
त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि॥ 2-14-57(11930)
योजनान्ते शतद्वारं वीरविक्रमतोरणम्।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः॥ 2-14-58(11931)
अष्टादश सहस्राणि भ्रातृणां सन्ति नः कले।
आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः॥ 2-14-59(11932)
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः।
अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च॥ 2-14-60(11933)
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे।
कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः॥ 2-14-61(11934)
कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः।
`प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ॥ 2-14-62(11935)
निशठश्च गदश्चैव सप्त चैते महारथाः।
विकमो झिल्लिबभ्रू च उद्धवोऽथ विदूरथः॥ 2-14-63(11936)
वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः।
प्रसेनजिच्च यमलो राजराजगुणान्वितः॥ 2-14-64(11937)
स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु।
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश॥ 2-14-65(11938)
वज्रसंहनना वीरी वीर्यवन्तो महाबलाः।
स्मरन्तो मध्यमं देशं वृष्णिवीरा गतज्वराः॥ 2-14-66(11939)
पाण्डवैश्चापि सततं नाथवन्तो वयं नृप।
सर्वसम्पद्गुणैः सिद्धे तस्मिन्नेवं व्यवस्थिते॥ 2-14-67(11940)
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत।
दुर्योधनं शान्तनवं द्रोणं द्रौणायनिं कृपम्॥ 2-14-68(11941)
कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम्।
एकलव्यं द्रुमं श्वेतं शैब्यं शकुनिमेव च॥ 2-14-69(11942)
एतानजित्वा सङ्ग्रामे कथं शक्नोषि तं क्रतुम्।
तथैते गौरवेणैव न योत्स्यन्ति नराधिपाः॥ 2-14-70(11943)
एकस्तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा।
योत्स्यते स परामर्षी दिव्यास्रबलगर्वितः'॥ 2-14-71(11944)
न तु शक्यं जरासन्धे जीवमाने महाबल
राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम॥ 2-14-72(11945)
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे।
कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः॥ 2-14-73(11946)
स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः।
`अभिषिक्तः स राजन्यैः सहस्रैरुत चाष्टभिः'।
महादेवं महात्मानमुमापतिमरिन्दम॥ 2-14-74(11947)
आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः।
प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम॥ 2-14-75(11948)
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान्।
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम्॥ 2-14-76(11949)
वयं चैव महाराज जरासन्धभयात्तदा।
मधुरा सम्परित्यज्य गता द्वारवतीं पुरीम्॥ 2-14-77(11950)
यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि।
यतस्व तेषां मोक्षाय जरासन्धवधाय च॥ 2-14-78(11951)
समारम्भो न शक्योऽयमन्यथा कुरुनन्दन।
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर॥ 2-14-79(11952)
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ।
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः॥ ॥ 2-14-80(11953)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि चतुर्दशोऽध्यायः॥ 14॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-14-4 भुवि ये श्रेणिबद्धा राजानः येचान्ये क्षत्रियाः तान् इक्ष्वाकुवंशस्य प्रकृ ति प्रजां परिचक्षते॥ 2-14-56 माधवाः मधुवश्याः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|